सो अ॑ग्न ए॒ना नम॑सा॒ समि॒द्धोऽच्छा॑ मि॒त्रं वरु॑ण॒मिन्द्रं॑ वोचेः । यत्सी॒माग॑श्चकृ॒मा तत्सु मृ॑ळ॒ तद॑र्य॒मादि॑तिः शिश्रथन्तु ॥
so agna enā namasā samiddho cchā mitraṁ varuṇam indraṁ voceḥ | yat sīm āgaś cakṛmā tat su mṛḻa tad aryamāditiḥ śiśrathantu ||
सः । अ॒ग्ने॒ । ए॒ना । नम॑सा । स॒म्ऽइ॒द्धः । अच्छ॑ । मि॒त्रम् । वरु॑णम् । इन्द्र॑म् । वो॒चेः॒ । यत् । सी॒म् । आगः॑ । च॒कृ॒म । तत् । सु । मृ॒ळ॒ । तत् । अ॒र्य॒मा । अदि॑तिः । शि॒श्र॒थ॒न्तु॒ ॥ ७.९३.७